मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५४, ऋक् १

संहिता

तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् ।
प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोजः॑ प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥

पदपाठः

ताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् ।
प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इ॒न्द्र॒ ॥

सायणभाष्यम्

तां सु त इति षडृचं द्वादशं सूक्तं वामदेवगोत्रस्य बृहदुक्थस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम्। तां सु षड् बृहदुक्थो वामदेव्य इति। स मूढस्य दशरात्रस्य द्वितीये छन्दोम एतत्सूक्तम् । सूत्रितं च। अपूर्व्या पुरु तमानि तां सु ते कीर्तिं महा इन्द्र। आ. ८-७। इति। महाव्रते निष्केवल्य एतत्सूक्तम्। सूत्रितं च। तां सु ते कीर्तिं मघवन्महित्वा भूय इद्वावृधेवीर्याय। ऐ. आ. ५-१-६। इति॥

हे इन्द्र मघवन् धनान् ते तव सम्बन्धिनीं महित्वा महत्त्वेनागतां कीर्त्गिं सु सुष्ठु कीर्तयामीति शेषः। किञ्च यद्यदा त्वा त्वां प्रति भीते असुरैर्भयं प्राप्ते रोदसी द्यावापृथिव्यावह्वयेतां अवेत्यब्रूतां तदानीं देवान्प्रावः। प्रारक्षः। तथा दासं देवानामुपक्षयकर्तारमसुरमातिरः। व्यनाशयः। असुरान् हत्वा देवानां रक्षणेन द्यावापृथिव्योर्भीतिं पर्यहर इति यदस्ति किञ्च त्वस्या एकस्यै प्रजायै यजमानरूपायै यद्बलमशिक्षः प्रायच्छः तां कीर्तिं कीर्तयामीत्यर्थः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५