मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५४, ऋक् ३

संहिता

क उ॒ नु ते॑ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः ।
यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒॑ः स्वाया॑ः ॥

पदपाठः

के । ऊं॒ इति॑ । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे॑ । ऋष॑यः । अन्त॑म् । आ॒पुः॒ ।
यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ । सा॒कम् । अज॑नयथाः । त॒न्वः॑ । स्वायाः॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव महिमनो महिम्नः समस्य सर्वस्याप्यन्तं पारमस्मदस्मत्तः पूर्व ऋषयः क आपुः। प्राप्नुवन्। न कोऽपीत्यर्थः। यद्यपि महत्त्वं प्रख्यापयन्ति तथापि न कात्स्न्येनेति। तत्र कारणमाह। यद्यस्मान्मातरं पितरं च। द्यौः पिता पृथिवी मातेति हि श्रुतम् । अतो द्यावापृथिव्यावित्यर्थः। ते उभे अपि साकं सहैव स्वायास्त्वन्वः स्वकीयाच्छरीरादजनयथाः। उद्पादयः। अतो नापुरिति सम्बन्धः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५