मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५४, ऋक् ४

संहिता

च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ सन्ति ।
त्वम॒ङ्ग तानि॒ विश्वा॑नि वित्से॒ येभि॒ः कर्मा॑णि मघवञ्च॒कर्थ॑ ॥

पदपाठः

च॒त्वारि॑ । ते॒ । अ॒सु॒र्या॑णि । नाम॑ । अदा॑भ्यानि । म॒हि॒षस्य॑ । स॒न्ति॒ ।
त्वम् । अ॒ङ्ग । तानि॑ । विश्वा॑नि । वि॒त्से॒ । येभिः॑ । कर्मा॑णि । म॒घ॒ऽव॒न् । च॒कर्थ॑ ॥

सायणभाष्यम्

हे इन्द्र महिषस्य महतः पूज्यस्य ते तव चत्वार्यसुर्याण्यसुरविघातीन्यदाभ्यान्यन्यैरहिंस्यान्युत्तरसुक्त उपान्त्रवर्जिते दूरे तन्नामेत्यादिषु प्रतिपादितानि यानि नाम नामकानि शरीराणि सन्ति अङ्ग सखे त्वं तानि विश्वानि सर्वाणि वित्से। अदाभ्यान्यहिंस्यानि वेत्सि। जानासि। येभिर्यैनामभिः कर्माणि वृत्रवधादिरूपाणि चकर्थ कुरुषे हे मघवन् तानि वेत्सीति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५