मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५४, ऋक् ५

संहिता

त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि ।
काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥

पदपाठः

त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि ।
काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥

सायणभाष्यम्

हे इन्द्र त्वं विश्वा सर्वाणि केवलान्यन्येशामसाधारनानि वसूनि धनानि दधिषे। धारयसि। विश्वानीत्युक्तं कथं विश्वत्वमित्यत आह। यान्याविराविर्भुतानि सर्वैः प्रसिद्धानि वसूनि वासयोग्यानि धनानि सन्ति या च गुहा गुहायां निगूधे प्रदेशे वर्तमानानि वसूनि सन्ति तानि विश्वानि दधिष इति। यस्मादेवं तस्मान्मे मम कामं काङ्क्षितं हे मघवन् धनवन्निन्द्र मा वि तारीः। मा हिंसीः। इदिति पादपूरणः। वर्धयेति शेषः। हे इन्द्र त्वमाज्ञातासि प्रापयितास्यभिलषितं धनम्। तथा हे इन्द्र त्वं दातासि॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५