मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५५, ऋक् ६

संहिता

शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी॑ळः ।
यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥

पदपाठः

शाक्म॑ना । शा॒कः । अ॒रु॒णः । सु॒ऽप॒र्णः । आ । यः । म॒हः । शूरः॑ । स॒नात् । अनी॑ळः ।
यत् । चि॒केत॑ । स॒त्यम् । इत् । तत् । न । मोघ॑म् । वसु॑ । स्पा॒र्हम् । उ॒त । जेता॑ । उ॒त । दाता॑ ॥

सायणभाष्यम्

शाक्मना। शक्मैव शाक्म। शक्मना बलेन शाकः शक्तः। शक्लृ शक्तौ। स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः। न हीन्द्रस्य सहायान्तरापेक्षास्तीन्द्रत्वादेव। अरुणोऽरुणवर्णः सुपर्णः कश्चिच्छोभनपर्णः पक्ष्या गच्छतीत्यध्याहारः। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। यो महो महाञ्शूरो विक्रान्तः सनात् पुराणोऽनीळोऽनीडो नीडस्याकर्ता। न हीन्द्रोऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति। एवं सुपर्णरूपेणेन्द्रमाह। स पक्षीन्द्रो यच्चिकेत कर्तव्यत्वेन जानाति तत्सत्यमित् सत्यमेव न तु मोघं व्यर्थं भवति। स स्पार्हं स्पृहणीयं वसुत जेता जयति शत्रुभ्यः सकाशात् उतापि दाता प्रयच्छति च स्तोतृभ्यः। न लोकाव्ययेत्यादिना षष्ठीप्रतिषेधः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७