मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५५, ऋक् ७

संहिता

ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री ।
ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यन्त दे॒वाः ॥

पदपाठः

आ । ए॒भिः॒ । द॒दे॒ । वृष्ण्या॑ । पौंस्या॑नि । येभिः॑ । औक्ष॑त् । वृ॒त्र॒ऽहत्या॑य । व॒ज्री ।
ये । कर्म॑णः । क्रि॒यमा॑णस्य । म॒ह्ना । ऋ॒ते॒ऽक॒र्मम् । उ॒त्ऽअजा॑यन्त । दे॒वाः ॥

सायणभाष्यम्

इन्द्र एभिर्मरुद्भिः सह वृष्ण्यानि वर्षकाणि पौंस्यानि बलान्याददे। आदत्ते। येभिर्मरुद्भिः सहितो वृत्रहत्याय। प्राण्युपकारवृष्ट्यावरकत्वाद्वृत्रः पापम् । तस्य हत्याय। मनुष्याणामुपद्रवशमनायेत्यर्थः। तदर्थं वज्री वज्रवानिन्द्र औक्षत्। वर्षति। ये च मरुतो देवा मह्ना महतेन्द्रेण क्रियमाणस्य कर्मणो वृष्टिप्रदानलक्षणस्य साहाय्यार्थमृतेकर्म मृतकर्मवृष्टिप्रदानकर्म प्रत्युदजायन्त उन्मुखा जायन्ते स्वयमेव तैरेभिर्दद इति समन्वयः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७