मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५५, ऋक् ८

संहिता

यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् ।
पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥

पदपाठः

यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् ।
पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥

सायणभाष्यम्

स इन्द्रो युजा मरुतां साहाय्येन कर्माणि प्रवर्षणादीनि जनयन्नुत्पादयन् विश्वौजा व्याप्तबलोऽशस्तिहा रक्षोहा विश्वमना प्याप्तमना अत्यन्तं मनस्वी तुराषाट् तूर्णमभिभविता शत्रूणाम्। एवं महानुभाव इन्द्रः सोमस्य सोमं पीत्वी पीत्वा दिवो द्युलोकादागत्य सोमं पीत्वा वृधानो वर्धमानः शूरः सन् युधायुधेन प्रहारेण वा दस्यूञ्शत्रून्निरधमत्। निर्धमति। युद्धेनासुरानपबाधत इत्यर्थः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७