मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५६, ऋक् १

संहिता

इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।
सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥

पदपाठः

इ॒दम् । ते॒ । एक॑म् । प॒रः । ऊं॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ ।
स॒म्ऽवेश॑ने । त॒न्वः॑ । चारुः॑ । ए॒धि॒ । प्रि॒यः । दे॒वाना॑म् । प॒र॒मे । ज॒नित्रे॑ ॥

सायणभाष्यम्

इदं त इति सप्तर्चं चतुर्दशं सूक्तम् । वामदेवपुत्रो बृहदुक्थ ऋषिः। चतुर्थीपञ्चमीषष्ठ्यो जगत्यः। आदितस्तिस्रः सप्तमी च त्रिष्टुभः। विश्वे देवा देवता। तथा चानुक्रान्तम्। इदं ते सप्त वैश्वदेवं तु चतुर्थ्याद्यास्तिस्रो जगत्य इति। गतः सूक्तविनियोगः। आहवनीये वाद्यादिकारणेनायतनान्निष्क्रम्य शम्यापरासादर्वाचीने देशे दीप्यमाने सति तमग्निमनया पुनरायतने संवपेत्। सूत्रितं च। आहवनीयमवदीप्यमानमर्वाक् शम्यापरासादिदं त एकं पर ऊ त एकमिति संवपेत्। आ. ३-१०॥ इति॥

एतदादिभिर्बृहदुक्थो वाजिनं नाम स्वपुत्रं मृतं वदति। हे मृत पुत्र ते तवेदम् । उपरि ज्योतिषेति वक्ष्यमानत्वादत्रेदं शब्देन ज्युओतिरभिधीयते। इदं ज्योतिरग्न्याख्यमेकमेकोऽंशः। अतस्तमग्निं तव देहगताग्न्यंशेन बाह्यमग्निं सं विशस्व। सङ्गच्छस्व। तथा पर उअ अन्योऽपि ते तवैकं वाय्वाख्योऽंशः। ते तव प्राणवाय्वाख्येनांशेन संविशस्व। शरीराग्निप्राणवाय्वोर्बाह्याग्निवायोश्चैकत्वादम्शत्वमिति भावः। तथा तृतीयेन ज्योतिषादित्याख्येन तेजसा तवात्मना संविशस्व। सूर्यगतात्मचैतन्यदेहगतात्मचैतन्ययोरभेदादंशत्वम् । तद्योऽहं सोऽसौ योऽसौ सोऽहं सूर्य आत्मा जगतस्तुस्थुषश्चेति श्रुतेरात्मनः सूर्यप्रवेशोयुक्तः। तन्वस्तन्वाः संवेशने तस्मिन्सूर्ये संविश्य चारुरेधि। कल्याणो भव। कीदृशस्त्वम् । प्रियस्तेन सह प्रीयमाणः। कीदृशे तस्मिन्। देवानां परम उत्तमे जनित्रे जनके। देवानां ह्येतत्परमं जनित्रं यत्सूर्य इति हि श्रुतिः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८