मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५६, ऋक् २

संहिता

त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् ।
अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योति॒ः स्वमा मि॑मीयाः ॥

पदपाठः

त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् ।
अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥

सायणभाष्यम्

हे वाजिन्नेतन्नामक पुत्र ते तव तन्वं शरीरंनयन्ती स्वशरीरं प्रापयन्ती तनूरियं पृथिवी। उभयोरपि पार्थिवत्त्वात्तव शरीरस्य पृथिवी प्राप्तौ सत्यां तस्यास्तव शरीरनयनं युक्तम् । तादृशी पृथिवी वामं वननीयं धनमस्मभ्यं धातु। दधातु। शर्म च सुखं तुभ्यं धातु। दधातु। स त्वमह्रुतोऽनवपतितः सन् महो महतो देवांस्तव कारणभुतान् दिवीव ज्योतिर्द्युलोके वर्तमानं सूर्यं च। इवशब्दश्चार्थे नोपातानामनेकार्थत्वात्। तं च स्वं तव स्वभूतमामिमीयाः। आविश॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८