मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५६, ऋक् ४

संहिता

म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु॑म् ।
सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशु॒ः पुनः॑ ॥

पदपाठः

म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु॑ । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् ।
सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥

सायणभाष्यम्

पितरश्चनास्मत्पितरोऽप्यङ्गिरस एषां देवानां महिम्नो महत्त्वस्येशिरे। ईश्वरा अभवन्। ते देवा अपि देवत्वं प्राप्ता अङ्गिरसो देवेष्विन्द्रादिषु क्रतुं सङ्कल्पमदधुः। धृतवन्तः। उतापि च यानि तेजांस्यत्विषुर्दीप्यन्ते तानि समविव्यचुः। सङ्गता आसन्। एषां देवानां तनूषु शरीरेषु नि विविशुः। निविशन्ति पितरोऽङ्गिरसः। अतस्त्वमपि तथा कुर्वित्यर्थः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८