मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५६, ऋक् ५

संहिता

सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रज॒ः पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः ।
त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयन्त पुरु॒ध प्र॒जा अनु॑ ॥

पदपाठः

सहः॑ऽभिः । विश्व॑म् । परि॑ । च॒क्र॒मुः॒ । रजः॑ । पूर्वा॑ । धामा॑नि । अमि॑ता । मिमा॑नाः ।
त॒नूषु॑ । विश्वा॑ । भुव॑ना । नि । ये॒मि॒रे॒ । प्र । अ॒सा॒र॒य॒न्त॒ । पु॒रु॒ध । प्र॒ऽजाः । अनु॑ ॥

सायणभाष्यम्

मदीयाः पितरः सहोभिर्बलैः स्वियैर्विश्वं सर्वं रजो लोकम् । लिका रजांस्युच्यन्त इति निरुक्तम्। पूर्वा पूर्वाणि धामानि स्थानान्यमितान्यैरमितानि विमानाः परिच्छिन्दन्तः परिचक्रमुः। पर्यक्रामन्। किञ्च तथा कुर्वन्तो विश्वा सर्वाणिभुवना भुतजातानि नि येमीरे। नियमितवन्तः। किं च पुरुध पुरुधा बहुप्रकारं प्रजा अनु ज्योतींष्युदकानि वा प्रासारयन्त। प्रसारितवन्तः। अस्मत्पितरः पूर्वेऽङ्गिरसः स्वसामर्थ्येन सर्वं लोकं व्याप्यं पुरातनानि ग्रहनक्षत्रादीनि परिच्छिद्य सर्वभूतानि नियम्य प्रजा अनूदकानि तेजांसि वा प्रसारितवन्त इत्यर्थः। अतस्त्वमप्येवं कुर्विति भावः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८