मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५६, ऋक् ७

संहिता

ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥

पदपाठः

ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।
स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । आ । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥

सायणभाष्यम्

नावा नोदकोत्तरणसाधनेनेव क्षोद उदकं यथा मनुष्या नवोदकमतितरन्ति यथा वा स्वस्तिभिः क्षेमैर्विश्वा सर्वाणि दुर्गाणि दुःखेन गन्तव्यान्यतितरन्ति तद्वद्बृहदुक्थः स्वां प्रजां वाजिनं मृतं पुत्रं महित्वा स्वमहत्त्वेनावरेष्वग्न्यादिष्वादधात्। कृतवान्। तदा परेषु दिव्येषु सूर्यादिष्वादधात्। एवमृषिर्ब्रूतेस्वयमेव वा स्वात्मानं परोक्षेणाह॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८