मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५७, ऋक् २

संहिता

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः ।
तमाहु॑तं नशीमहि ॥

पदपाठः

यः । य॒ज्ञस्य॑ । प्र॒ऽसाध॑नः । तन्तुः॑ । दे॒वेषु॑ । आऽत॑तः ।
तम् । आऽहु॑तम् । न॒शी॒म॒हि॒ ॥

सायणभाष्यम्

योऽयमग्न्याख्यस्तन्तुराहवनीयादिरूपेण विस्तृतो यज्ञतो यज्ञस्य प्रसाधनः प्रकर्षॆण साधयिता दैवैः स्तोतृभिर्यत्विग्भिर्विस्तारितो वर्तते वेद्यां तमाहुतं सर्वतो हूयमानं नशीमहि। प्राप्नुयाम। नशतिर्व्याप्तिकर्मा॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९