मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५७, ऋक् ३

संहिता

मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे॑न ।
पि॒तॄ॒णां च॒ मन्म॑भिः ॥

पदपाठः

मनः॑ । नु । आ । हु॒वा॒म॒हे॒ । ना॒रा॒शं॒सेन॑ । सोमे॑न ।
पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः ॥

सायणभाष्यम्

पिण्डपितृयज्ञे मनो न्वा हुवामह इति तृचेन पिण्डाभिमानिनः पितर उपस्थेयाः। सूत्रितं च। मनो न्वा हुवामह इति चतसृभिरथैनान्प्रवाहयेत्। आ. २-७। इति॥

वयं बन्धुश्रुतबन्ध्वादयो मनः सुबन्धोः सम्बन्धि मायाविभिरपहृतं नु क्षिप्रमा हुवामहे। केन साधनेनेति तदुच्यते। नाराशंसेन नाराशंसचमसगतेन सोमेन। नरैः शस्यन्त इति नराशंसाः पितरः । तेषां चमसानां कम्पनमेव होमः। तथाविधेन सोमेन पितॄणामङ्गिरसां मन्मभिर्मगनीयैः स्तोत्रैश्च॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९