मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५७, ऋक् ४

संहिता

आ त॑ एतु॒ मन॒ः पुन॒ः क्रत्वे॒ दक्षा॑य जी॒वसे॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥

पदपाठः

आ । ते॒ । ए॒तु॒ । मनः॑ । पुन॒रिति॑ । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ ।
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥

सायणभाष्यम्

हे सम्बन्धो ते मनः पुनरैतु। अभिचरतः सकाशात्पुनरागच्छतु। किमर्थमिति उच्यते। क्रत्वे कर्मणे लौकिकवैदिकविषयाय दक्शाय बलाय च। यद्वा। क्रत्वेऽपानाय दक्षाय प्राणाय। प्राणो वै दक्षोऽपानः क्रतुरिति हि श्रुतिः। जीवसे जीवनाय च। ज्योक्च चिरकालं सूर्यं दृशे। सूर्यं द्रष्टुम् । अत्यन्तं चिरजीवनायेत्यर्थः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९