मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५७, ऋक् ५

संहिता

पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ ।
जी॒वं व्रातं॑ सचेमहि ॥

पदपाठः

पुनः॑ । नः॒ । पि॒त॒रः॒ । मनः॑ । ददा॑तु । दैव्यः॑ । जनः॑ ।
जी॒वम् । व्रात॑म् । स॒चे॒म॒हि॒ ॥

सायणभाष्यम्

नोस्माकं पितरः पितृभूता अङ्गिरसो जनः। तेषां सङ्घ इत्यर्थः। स च जीवं व्रातं प्राणादीन्द्रियसङ्घातं पुनर्ददातु। तथा दैव्यो जनः। जनशब्दः सङ्घवचनः। देवानां सङ्घोऽपि जीवं व्रातं च ददातु। वयं च तदुभयं सचेमहि। प्राप्नुयाम ॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९