मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५७, ऋक् ६

संहिता

व॒यं सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जाव॑न्तः सचेमहि ॥

पदपाठः

व॒यम् । सो॒म॒ । व्र॒ते । तव॑ । मनः॑ । त॒नूषु॑ । बिभ्र॑तः ।
प्र॒जाऽव॑न्तः । स॒चे॒म॒हि॒ ॥

सायणभाष्यम्

हे सोम देव वयं बन्ध्वादयस्तव व्रते त्वदीये कर्मणि। व्रतमिति कर्मनाम। तव तनूषु तदीयेष्वङ्गेषु च मनो विभ्रतस्तात्पर्ययुक्तां बुद्धिं धारयन्तः। प्रजावन्तः प्रजाभिः पुत्रपौत्राभिर्युक्ताः सचेमहि। सङ्गच्छेमहि। जीवं व्रातं चेति शेषः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९