मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५८, ऋक् ४

संहिता

यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

पदपाठः

यत् । ते॒ । चत॑स्रः । प्र॒ऽदिशः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

सायणभाष्यम्

हे सुबन्धो यत्ते मनः प्रदिशः प्रक्शुष्ता महादिशश्चतस्रो जगाम तदावर्तयामः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०