मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५८, ऋक् ६

संहिता

यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

पदपाठः

यत् । ते॒ । मरी॑चीः । प्र॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

सायणभाष्यम्

हे सुबन्धो यत्ते मनः प्रवतः प्रगच्छन्तीर्मरीचीर्दीप्तीर्जगाम तदिति गतम्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०