मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५८, ऋक् १०

संहिता

यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

पदपाठः

यत् । ते॒ । विश्व॑म् । इ॒दम् । जग॑त् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

सायणभाष्यम्

हे सुबन्धो यत्ते मनो विश्वमिति तदिति गतम्। चतस्र ऋचो निगदसिद्धाः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१