मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५८, ऋक् १२

संहिता

यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

पदपाठः

यत् । ते॒ । भू॒तम् । च॒ । भव्य॑म् । च॒ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

सायणभाष्यम्

हे सुबन्धो यत्ते मनो भूतं च भव्यं चेत्यनेन भूतभय्वात्मकव्यतिरेकेण कस्यचिदभावाद्वर्तमानस्य पृथगेवाभिधानात् कृत्स्नं प्रपञ्चमुक्तं भवति। तत्र सर्वत्र गतं मनो जीवनाय निवासाय चावर्तयामः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१