मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५९, ऋक् ४

संहिता

मो षु णः॑ सोम मृ॒त्यवे॒ परा॑ दा॒ः पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।
द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निरृ॑तिर्जिहीताम् ॥

पदपाठः

मो इति॑ । सु । नः॒ । सो॒म॒ । मृ॒त्यवे॑ । परा॑ । दाः॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
द्युऽभिः॑ । हि॒तः । ज॒रि॒मा । सु । नः॒ । अ॒स्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥

सायणभाष्यम्

हे सोम नोऽस्मान् सु सुष्ठु मृत्यवे मो परा दाः। मैव परादानं कुरु। मृत्य्वधीनान्नोऽस्मान्माकार्षीः। किन्तु न्विदानीमुच्चरन्तमूर्ध्वं गच्छन्तमुदयन्तं सूर्यं पश्येम। चिरकालं जीवेमेत्यर्थः। जीवाभावे सूर्यादर्शनादित्यभिप्रायः। किञ्च द्युभिः। अहर्नामैतत्। अहोभिर्दिवसैर्हितः प्रेरितो जरिमा जराभावो नोऽस्माकं सु सुखकरोऽस्तु। शिष्टमुक्तम्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२