मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५९, ऋक् ७

संहिता

पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् ।
पुन॑र्न॒ः सोम॑स्त॒न्वं॑ ददातु॒ पुनः॑ पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥

पदपाठः

पुनः॑ । नः॒ । असु॑म् । पृ॒थि॒वी । द॒दा॒तु॒ । पुनः॑ । द्यौः । दे॒वी । पुनः॑ । अ॒न्तरि॑क्षम् ।
पुनः॑ । नः॒ । सोमः॑ । त॒न्व॑म् । द॒दा॒तु॒ । पुन॒रिति॑ । पू॒षा । प॒थ्या॑म् । या । स्व॒स्तिः ॥

सायणभाष्यम्

पृथिवी देवी नोऽस्मभ्यमसुं प्राणं ददातु पुनः। दौर्देवतासुं ददातु । तथान्तरिक्षमन्तरिक्षदेवतासुं ददातु। तथा सोमो नस्तन्वं शरीरं पुनर्ददातु। तथा पूषा पोषाभिमानिनी देवता पथ्याम् । पन्था अन्तरिक्षम् । नि-११-४५। तत्र भवां वाचम् । वागात्मकः शब्दो ह्याकाशादुत्पद्यते। तां पुनर्ददातु। किञ्च या स्वस्तिर्यालोके वेदे च स्वस्तिरुच्यते तामपि पूषा प्रयच्छतु। यद्वा। पूषा पॊषं प्रयच्छतु। या स्वस्तिर्वाग्नाम्नी देव्यस्ति सा पथ्यां वाचं प्रयच्छतु। वाग्वै पथ्या स्वस्तिः। शत्त. ३-२-३-८। इति ब्राह्मणम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३