मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५९, ऋक् १०

संहिता

समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अनः॑ ।
भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥

पदपाठः

सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह॑म् । यः । आ । अव॑हत् । उ॒शी॒नरा॑ण्याः । अनः॑ ।
भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥

सायणभाष्यम्

हे इन्द्र समीरय प्रेरय। किं गां गन्तारमनड्वहमनोवहनसमर्थम् । योऽनड्वानावहत् आवहत्यस्मान्प्रति। किम् । अनः शकटम् । कस्य । उशीनराण्या एतन्नामिकाया ओषधेः। ययार्तमनुलिम्पन्ति सोशीनराणी। भरतामित्यादि गतम्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३