मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६०, ऋक् ३

संहिता

यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् ।
उ॒ताप॑वीरवान्यु॒धा ॥

पदपाठः

यः । जना॑न् । म॒हि॒षान्ऽइ॑व । अ॒ति॒ऽत॒स्थौ । पवी॑रवान् ।
उ॒त । अप॑वीरवान् । यु॒धा ॥

सायणभाष्यम्

योऽसमातिर्जनान् स्वविरोधिभूतानतितस्थौ अतिक्रम्य तिष्थति। पराभावयतीत्यर्थः। क इव। महिषान् सिंह इव। कीदृशः सन्। पवीरवान्। पवीर पविः। खड्गवान्। उतापि चापवीरवानपगतखड्गः सन्। शस्त्रसाहाय्यमपि कदाचिन्नापेक्षत इत्यर्थः। किं कुर्वन्। युधा योधनेन। युद्ध्वेत्यर्थः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४