यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते ।
दि॒वी॑व॒ पञ्च॑ कृ॒ष्टयः॑ ॥
यस्य॑ । इ॒क्ष्वा॒कुः । उप॑ । व्र॒ते । रे॒वान् । म॒रा॒यी । एध॑ते ।
दि॒विऽइ॑व । पञ्च॑ । कृ॒ष्टयः॑ ॥
यस्य जनपदस्येक्ष्वाकू राजा व्रते कर्मणि रक्षण रूप उपैधते प्रवर्धते। कीदृशः सन्। रेवान् रयिवान् मरायी शत्रूणां मारकश्च सन्। विशेषण द्वयेन जनानां दानादिरूपेण धनलाभः परराजोपद्रवापत्तिश्चोक्ता भवति। एवा सति तद्विषयस्था पञ्च कृष्टयो निषादपञ्चमाश्चत्वारो वर्णा दिवीव द्युलोकः यथा सङ्कल्पसिद्धाः सन्तः सुखिनो भवन्ति तद्वत्सुखिनो भवन्तीति शेशः॥४॥