मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६०, ऋक् ५

संहिता

इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय ।
दि॒वी॑व॒ सूर्यं॑ दृ॒शे ॥

पदपाठः

इन्द्र॑ । क्ष॒त्रा । अस॑मातिषु । रथ॑ऽप्रोष्ठेषु । धा॒र॒य॒ ।
दि॒विऽइ॑व । सूर्य॑म् । दृ॒शे ॥

सायणभाष्यम्

अनयेन्द्रमाह्वतेऽसमात्यर्थम् । हे इन्द्र क्षत्रा क्षत्राणि बलानि रथप्रोष्ठेष्वसमातिषु। एकस्मिन्बहुवचनं पूजार्थम् । रथ प्रोष्ठेऽसमातौ धारय। दिवीव सूर्यं दिवि यथा सूर्यं दृशे सर्वेषां सन्दर्शनाय स्थापितवानसि तद्वदत्र बलं धारय॥ ५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४