मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६०, ऋक् ११

संहिता

न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्य॑ः ।
नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥

पदपाठः

न्य॑क् । वातः॑ । अव॑ । वा॒ति॒ । न्य॑क् । त॒प॒ति॒ । सूर्यः॑ ।
नी॒चीन॑म् । अ॒घ्न्या । दु॒हे॒ । न्य॑क् । भ॒व॒तु॒ । ते॒ । रपः॑ ॥

सायणभाष्यम्

वातो वायुर्द्युलोकान्न्यग्नीचीनमव वाति। गच्छति। सूर्यश्च न्यक् तपति। अघ्न्याहननीया गौर्नीचीनं दुहे। दुग्धे। एवं ते रपः पापं न्यग्नीचीनं भवतु॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५