मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २

संहिता

स इद्दा॒नाय॒ दभ्या॑य व॒न्वञ्च्यवा॑न॒ः सूदै॑रमिमीत॒ वेदि॑म् ।
तूर्व॑याणो गू॒र्तव॑चस्तम॒ः क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिञ्चत् ॥

पदपाठः

सः । इत् । दा॒नाय॑ । दभ्या॑य । व॒न्वन् । च्यवा॑नः । सूदैः॑ । अ॒मि॒मी॒त॒ । वेदि॑म् ।
तूर्व॑याणः । गू॒र्तव॑चःऽतमः । क्षोदः॑ । न । रेतः॑ । इ॒तःऽऊ॑ति । सि॒ञ्च॒त् ॥

सायणभाष्यम्

स इत् स कृष्णशवासी पुरुषो रुद्राख्यो दानाय स्तोतृणां धनप्रदानाय दभ्याय शत्रूणां वधाय च वन्वन् स्तोतॄन्सम्भजन् सूदैः सूदकैर्हिंसकैः शस्त्रैश्च्यवानो रक्षांसि च्यावयन् वेदिममिमीत। परिमितवान्। यज्ञवास्त्वधिष्ठितवानित्यर्थः। तं कृष्णरवास्युत्तरत उपोत्थायाब्रविन्मम वा इदं मम वै वास्तुहमितीति ब्राह्मणम् । ऐ. ब्रा. ५-१४। तदेवाह। तूर्वयाणस्तूर्णगमनो गूर्तवचस्तमोऽत्यन्तमुद्यतवचा रुद्रः क्षोदोनोदकमिव। उदकं यथा घनः सिञ्चति तद्वद्रेतः स्वसामर्थ्यमितऊतीतोगमनवद्यथा भवति तथा सिञ्चत्। प्रेरितवानित्यर्थः। यद्वा। अनेनोत्तरार्धेनोत्तराभ्यां च प्रासङ्गिक्यश्विनोः स्तुति क्रियते। तूर्वयाणस्तूर्णगमनोऽतिशयेनोद्यतवचनो रुद्रः क्षोदो नोदकमिव रेतः उत्पादनसामर्थ्योपेतं रेत इतऊति सिञ्चत्। जनयामासाश्विनौ। अन्यत्रेत ऊतीत्यश्विनोरभिधानादन्यत्र तयो रुद्रपुत्रत्वसिद्धेश्चायमर्थो लभ्यते॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६