मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒ः शच्या॑ वनु॒थो द्रव॑न्ता ।
आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥
मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता ।
आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥
हे अश्विनौ युवां मनो न मन इव यथा मनस्तिग्मं तीक्ष्णमाशु धावति आगच्छति एवं येषु हवनेष्वह्वानेषु विपः स्तोतुः शच्य प्रज्ञानेन गन्तव्यमिति बुद्ध्याद्रवन्ता द्रवन्तौ गच्छन्तौ वनुथः सम्भजथः। योऽध्वर्युरा अभिमुख्येन तुविनृम्णः प्रभूतहविर्लक्षणधनः सन्नस्य कर्मणि प्रवृत्तस्य मम सम्बन्धी शर्याभिरङ्गुलीभिरश्रीणीत श्रीणाति। किं कृत्वा। बघस्तौ हस्ते धृत्वादिशम् । इदमश्विभ्यामिति निर्दिश्येथर्थः। तादृशं मदीयमध्वर्युं येषु हवनेषु वनुथः सम्भजथः तौ युवां हुव इत्युत्तरत्र सम्बन्धः॥३॥