मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् ४

संहिता

कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वाम् ।
वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥

पदपाठः

कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीषु॑ । सीद॑त् । दि॒वः । नपा॑ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् ।
वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न॑म् । व॒व॒न्वांसा॑ । न । इष॑म् । अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥

सायणभाष्यम्

कृष्णा रात्रिर्यदादारुणीश्वरुणवर्णासु गोषु सीदत् निवसति। उषा विभासनाय रथमधितिष्ठतीत्यर्थः। अरुण्यो गाव उषसामिति निरुक्तम्। उषः काले हे दिवो नपाता दीप्यमानस्य स्वर्गस्य प्रकाशात्मकस्य यागस्य वा न पातयितारौ हे अश्विनौ वां हुवे। आह्वये। वीतं कामयेथां मेऽन्नं हविर्लक्षणम् । तदर्थं मे यज्ञमा गतम्। आगच्छतम्। इषमन्नं ववन्वांसा न सम्भजमानावश्वाविव। तद्वदागतम् । कीदृशौ युवाम् । अस्मृतध्रू। अस्मृतद्रोहौ मयि द्रोहमस्मरन्तौ॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६