मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् ६

संहिता

म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् ।
म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥

पदपाठः

म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् ।
म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥

सायणभाष्यम्

कामं यथेच्छं कृण्वाने कुर्वाणे पितरि प्रजापतौ युवत्यां दुहितर्युषसि दिवि वा। दिवमित्यन्य इति हि ब्राह्मणं प्रदर्शितम्। मध्या तयोर्मध्येऽन्तरिक्षमध्ये वाभीके समीपे यत्कर्त्वं कर्माभवत् मिथुनीभावाख्यं तदानीं मनानगनल्पं रेतो जहतुः। त्यक्तवन्तौ। किं कुर्वाणविति तत्राह। वियन्तौ परस्परमभिगच्छन्तौ। प्रजापतिना नानौ समुच्छ्रिते स्थाने सुकृतस्य यज्ञस्य योनौ निशिक्तमासीदित्यर्थः। ततो रुद्र उत्पन्न इत्यर्थः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७