मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् ९

संहिता

म॒क्षू न वह्नि॑ः प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ ।
सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥

पदपाठः

म॒क्षु । न । वह्निः॑ । प्र॒ऽजायाः॑ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप॑ । सीद॑त् । ऊधः॑ ।
सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त । वाज॑म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह॑सा । य॒वि॒ऽयुत् ॥

सायणभाष्यम्

वास्तोष्पतिना रुद्रेण गोप्यमानेऽस्मिन्यज्ञे वह्निर्वह्निवद्दाहको राक्षसादिर्मक्षु न शीघ्रं नोप सीदत्। नागच्छति। यो वह्निः प्रजाया उपब्दिरुपपीडको भवति यज्ञविघातार्थमागच्छति। ऋत्विगादिरूपायाः प्रजाया न पीडां करोत्यहनि। तथोधः। रात्रिनामैतत्। रात्रावप्यग्निं ज्वलन्तं नग्नो विवसनो राक्षसादिर्नोपसीदत्। एवं रुद्रे रक्षितरि सति सोऽग्निरिध्मं सनिता जज्ञे। उत्पन्नः। उतापि च वाजमन्नं हविः सैता जज्ञे। स धर्ता यज्ञस्य फलस्य वा धारक उत्पन्नः सोऽग्निः सहसा बलेन यवीयुद्यज्ञमिश्रयितॄणां रक्षः प्रभृतीनां योद्धा जज्ञे॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७