मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् ११

संहिता

म॒क्षू क॒नाया॑ः स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् ।
शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒ः पय॑ उ॒स्रिया॑याः ॥

पदपाठः

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् ।
शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ॒ऽअय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥

सायणभाष्यम्

मक्षु शीघ्रं कनायाः कमनीयाया घर्मदोग्ध्र्या नवीयो नवतरम् सख्यम् । प्राप्येति शेशः। अथवा नवीय इति राधोविशेशनम्। नवतरं राधो धनमिव रेतः सिच्यमानमृतमुदकम् तरुण्यन्। दिवः सकाशात्प्रेरितवन्तः। हे इन्द्र ते तुभ्यं यद्यदा रेक्णः पाथोलक्षणं धनमाभिमुखमयजन्त अपूजयन्। कीदृशं रेक्णः। सबर्दुघायाः। सबरित्यमृतनाम। अमृतदोग्ध्र्या उस्रियाया गोः पयः पानयोग्यं रसम् । तदोदकं तरुण्यन्निति। अत्राध्वर्युब्राह्मणम्। अङ्गिरसो वै सत्रमासत तेषां पृश्निर्घर्मधुगासीत् सर्जीषेणाजिवत् तेऽब्रुवन् कस्मै नु सत्रमास्महे येऽस्या ओषधीर्न जनयाम इति ते दिवो वृष्टिमसृजन्त। तै. ब्रा. २-१-१-१। इति॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८