मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १३

संहिता

तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सद॑न्तो नार्ष॒दं बि॑भित्सन् ।
वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥

पदपाठः

तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् ।
वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य॑ । गुहा॑ । यत् ॥

सायणभाष्यम्

तदित्तत्रैव नु क्षिप्रमस्येन्द्रस्य परिषद्वानः परितो वर्तमानाः परिचारका रश्मयोऽग्मन्। प्रकाशनार्थमगच्छन्। पुरु पुरूणि कृत्रिमाणि सदन्तः सीदन्तोऽसुरा नार्षदं नृषदः पुत्रं बिभित्सन्। भेत्तुमैच्छन्। किञ्चायं शुष्णस्यैतन्नाम कस्यासुरस्य पुरुप्रजातस्य बहुप्रादुर्भावस्य संग्रथितं मर्म विदत्। वेत्ति। अयमिन्द्रो यदसुरस्य दुर्ज्ञेयं मर्म गुहा गुहायां गोपितं तद्विदत्॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८