मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १५

संहिता

उ॒त त्या मे॒ रौद्रा॑वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै ।
म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥

पदपाठः

उ॒त । त्या । मे॒ । रौद्रौ॑ । अ॒र्चि॒ऽमन्ता॑ । नास॑त्यौ । इ॒न्द्र॒ । गू॒र्तये॑ । यज॑ध्यै ।
म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषे । ररा॑णा । म॒न्दू इति॑ । हि॒तऽप्र॑यसा । वि॒क्षु । यज्यू॒ इति॑ ॥

सायणभाष्यम्

उतापि च हे इन्द्र त्या तौ प्रसिद्धौ रौद्रौ रुद्र पुत्रौ। क्षोदो न रेत इतऊति सिञ्चत्। ऋ. १०-६१-२। इति हि रुद्रपुत्रत्वमुक्तम्। अर्चिमन्ता दीप्तिमन्तौ नासत्यावश्विनौ मे गुर्तये स्तुतये यजध्यै यागाय च भवेतामिति शेशः किञ्च मनुष्वन्मम पितुर्मनोरिव तस्य यज्ञे यथा तथैव वृक्तबर्हिषे स्तीर्णबर्हिषे मह्यम् रराना रममाणौ मन्दू मदिष्णू हितप्रयसा प्रेरितधनौ विक्ष्वृत्विक्ष्वस्मदीयेशु तथा यज्यू यष्टव्यौ भवतमिति शेशः॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८