मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १७

संहिता

स द्वि॒बन्धु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ ।
सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥

पदपाठः

सः । द्वि॒ऽबन्धुः॑ । वै॒त॒र॒णः । यष्टा॑ । स॒बः॒ऽधुम् । धे॒नुम् । अ॒स्व॑म् । दु॒हध्यै॑ ।
सम् । यत् । मि॒त्रावरु॑णा । वृ॒ञ्जे । उ॒क्थैः । ज्येष्ठे॑भिः । अ॒र्य॒मण॑म् । वरू॑थैः ॥

सायणभाष्यम्

सोग्निर्दिबन्धुर्द्वयोर्लोकयोर्बन्धुभुतो वैतरनः सर्वस्य विशेषेण तारयिता। यद्वा। वितरणार्हो हविष्प्रदानार्हः। यष्टा देवानां याजकोऽग्निः सबर्धुममृतोपमपयोदोग्ध्रीं धेनुमस्वमप्रसूतां निवृत्तप्रसवां तयवे दुहध्यै दोहायाकरोत्। यद्यदा स शयुर्मित्रावरुणावर्यमणं च ज्येष्थेभिर्ज्येष्ठैः प्रशस्तैर्वरूथैर्वरणीयैरुक्थैः शस्त्रैः सं वृञ्जे सम्यक् स्तौति। यदा स शयुर्मित्रावरुणार्यम्णां स्तुतिं करोति तद तेषामाज्ञायाग्निर्निवृत्त प्रसवा पयोदोग्ध्रीमकरोदिति॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९