मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १८

संहिता

तद्ब॑न्धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् ।
सा नो॒ नाभि॑ः पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥

पदपाठः

तत्ऽब॑न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्ऽधाः । नाभा॒नेदि॑ष्ठः । र॒प॒ति॒ । प्र । वेन॑न् ।
सा । नः॒ । नाभिः॑ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥

सायणभाष्यम्

तद्बन्धुः। सैव पृथिवी बन्धुकोत्पत्त्यधिष्ठानत्वेन यस्यासौ तद्बन्धुः। तन्मातृक इत्यर्थः। सूरिः स्तुतेः प्रेरको दिवि वर्तमानस्य ते तव स्वभुत इति शेशः। त्यदपत्यभूत इति यावत्। षष्ठी सामर्थ्यात्सम्बन्धसामान्यं प्रतीयते। तच्चादित्यपुत्रो मनुर्मनोः पुत्रो नाभानेदिष्ठ इत्येवं सूर्यापत्यत्वं पर्यवस्यति। सुर्यनाभानेदिष्ठोयोः सम्बन्धश्चरमपाद उत्तरमन्त्रे च वक्ष्यते। स च धियन्धाः कर्मणां धारको नाभानेदिष्ठो वेनन्नङ्गिरोदत्तम् गोसहस्रं वेनन्कामयन् प्र रपति। प्रलपति। स्तौतीत्यर्थः। वापि चेत्यर्थः। सा द्यौर्नोऽस्माकं परमोत्कृष्ता नाभिर्बन्धिका चास्यादित्यस्याधिष्ठानभुतास्ति। घेति पूरणः। अहं तत्तस्यादित्यस्य पश्चापश्चादनन्तरम् कतिथः कतिपयानां पूरण आस। आभवम्। अनेन ममादित्येन जन्यजनकभावः सम्बन्धः सन्निकृष्ट इत्युक्तं भवति॥१८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९