मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २५

संहिता

यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् ।
वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥

पदपाठः

यु॒वोः । यदि॑ । स॒ख्याय॑ । अ॒स्मे इति॑ । शर्धा॑य । स्तोम॑म् । जु॒जु॒षे । नम॑स्वान् ।
वि॒श्वत्र॑ । यस्मि॑न् । आ । गिरः॑ । स॒म्ऽई॒चीः । पू॒र्वीऽइ॑व । गा॒तुः । दाश॑त् । सू॒नृता॑यै ॥

सायणभाष्यम्

हे मित्रावरुणौ युवोर्युवयोः शर्धाय बलवतेऽस्मे अस्माकं सख्याय। यद्वा। युवयोः सख्यायास्मे अस्माकं शर्धाय बलाय यदि नमस्वानन्नवानध्वर्युः स्तोत्रवान्होता वा सोमं जुजुषे सेवते। यस्मिन् सख्ये सिद्धे सति विश्वत्र विश्वस्मिञ्जनपदे गिरोऽङ्गिरसां सम्बन्धिन्यः समीचीः समीच्य आ गच्छन्तीति शेषः। उदारानां गृह इदं ग्रुहाणेदं गृहेणेत्येवंरूपाः श्रूयन्त इत्यर्थः। यद्वा। यागानुष्थातॄणां स्तुतिगिर आगच्छन्तीति पुर्विव गातुः प्राची दिगिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत्। यद्वा। पूर्वी पुरा प्रसिद्धा पुरातनीव गातुः सरणिरिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत्। सूनृतायै प्रियसत्यरूपायै स्तुतिवाचे दाशत्। प्रयच्छ्तु॥२५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०