मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २६

संहिता

स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः ।
वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥

पदपाठः

सः । गृ॒णा॒नः । अ॒त्ऽभिः । दे॒वऽवा॑न् । इति॑ । सु॒ऽबन्धुः॑ । नम॑सा । सु॒ऽउ॒क्तैः ।
वर्ध॑त् । उ॒क्थैः । वचः॑ऽभिः । आ । हि । नू॒नम् । वि । अध्वा॑ । ए॒ति॒ । पय॑सः । उ॒स्रिया॑याः ॥

सायणभाष्यम्

देवताभिर्देववान् सुबन्धुः शोभनबन्धनह् स वरुण इतीत्थं कृतप्रकारेण नमसा नमस्कारेण सूक्तैश्च गृणानः स्तूयमानः सन्वर्धत्। वर्धताम् । उक्थैर्वचोभिरुच्यमानैः प्रशस्तैर्वा स्तुतिवचोभिर्नूनमिदानीमा गच्छत्विति शेशः। हीति पूरणः। तस्य यागार्थमुस्रियाया गोः पयसोऽध्वा मार्गो व्येति। स्तनाग्राणि क्षरन्तीत्यर्थः॥२६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०