मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ७

संहिता

इन्द्रे॑ण यु॒जा निः सृ॑जन्त वा॒घतो॑ व्र॒जं गोम॑न्तम॒श्विन॑म् ।
स॒हस्रं॑ मे॒ दद॑तो अष्टक॒र्ण्य१॒॑ः श्रवो॑ दे॒वेष्व॑क्रत ॥

पदपाठः

इन्द्रे॑ण । यु॒जा । निः । सृ॒ज॒न्त॒ । वा॒घतः॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
स॒हस्र॑म् । मे॒ । दद॑तः । अ॒ष्ट॒ऽक॒र्ण्यः॑ । श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥

सायणभाष्यम्

वाघतः कर्मणां वोढारो विश्वे देवा अङ्गिरसो वेन्द्रेण युजा सहायेन निः सृजन्त। निरगमयन्। किम् । गोमन्तं गोयुक्तमश्विनमश्वन्तं पणिभिरवरुद्धं व्रजम् । ते मे मां प्रति सहस्रं सहस्रसंख्याकं धनं सत्त्र परिवेशनमष्टकर्ण्यः। अष्ट इति अशू व्याप्तौ निष्थायां रूपम् । विस्त्रतकर्णाः। उपलक्शणमेतत्। व्याप्तसर्वावयवा गाश्च ददतो मह्यं प्रयच्छन्तो देवेष्विन्द्रादिषु श्रवो हविर्लक्षनमन्नं कीर्तिं वाक्रत अकृषत। अकरोतेर्लुङि मन्ते घसेति च्लेर्लुक्। एवम् नाभानेदिष्थेनाङ्गिरसः स्तुतास्तस्मै धनं प्रादुः। तदुक्तं शौनकेन। ऋषयोऽङ्गिरसस्तुष्टा युद्ददुर्मानवाय तु। तत्पुण्याय च कर्मणि ये यज्ञेनेत्यकीर्तयत्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः