मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ९

संहिता

न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ॑म् ।
सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ॥

पदपाठः

न । तम् । अ॒श्नो॒ति॒ । कः । च॒न । दि॒वःऽइ॑व । सानु॑ । आ॒ऽरभ॑म् ।
सा॒व॒र्ण्यस्य॑ । दक्षि॑णा । वि । सिन्धुः॑ऽइव । प॒प्र॒थे॒ ॥

सायणभाष्यम्

तं सावर्णिं मनुं कश्चन कश्चिदप्यारभमारुब्धुं स्वकर्मणा नाश्नोति। न व्याप्नोति । यथा मनुः प्रयच्छति तथान्यो दातुं न शक्नोतीत्यर्थः। कथं स्थितम्। दिव इव द्युलोकस्य सानु समुच्छ्रितं तेजसा कैश्चिदप्यप्रधृष्यमादित्यमिव स्थितम्। आरभं शकि णमुल्कमुलौ। पा. ३-४-१२। इति कमुल्। तस्य सावर्ण्यस्य मनोरियं गवादि दक्षिणा सिन्धुरिव स्यन्दमाना नदीव पृथिव्यां प्रपथे। विपप्रथे। विस्तीर्णा भवति॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः