मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् १०

संहिता

उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा ।
यदु॑स्तु॒र्वश्च॑ मामहे ॥

पदपाठः

उ॒त । दा॒सा । प॒रि॒ऽविषे॑ । स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी । गोऽप॑रीणसा ।
यदुः॑ । तु॒र्वः । च॒ । म॒म॒हे॒ ॥

सायणभाष्यम्

उतापि च स्व्मद्दिष्टी कल्याणादेशिनौ गोपरीणसा गोपरीनसौ गोभिः परिवृतौ बहुगवादियुक्तौ दासा दासवत्प्रेष्यवत्स्थितौ तेनाधिष्थितौ यदुश्च तुर्वश्चैतन्नामकौ राजर्षी परिविषेऽस्य सवर्णेर्मनोर्भोजनाय ममहे। पशून्प्रयच्छतः। प्रेत्येकमन्वयादेकवचनम्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः