मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ११

संहिता

स॒ह॒स्र॒दा ग्रा॑म॒णीर्मा रि॑ष॒न्मनु॒ः सूर्ये॑णास्य॒ यत॑मानैतु॒ दक्षि॑णा ।
साव॑र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा॑न्ता॒ अस॑नाम॒ वाज॑म् ॥

पदपाठः

स॒ह॒स्र॒ऽदाः । ग्रा॒म॒ऽनीः । मा । रि॒ष॒त् । मनुः॑ । सूर्ये॑ण । अ॒स्य॒ । यत॑माना । ए॒तु॒ । दक्षि॑णा ।
साव॑र्णेः । दे॒वाः । प्र । ति॒र॒न्तु॒ । आयुः॑ । यस्मि॑न् । अश्रा॑न्ताः । अस॑नाम । वाज॑म् ॥

सायणभाष्यम्

सहस्रदा गवादीनां सहस्रस्य दाता ग्रामणीर्ग्रामाणां नेता कर्ता जनपदानामयं मनुर्मा रिषत्। न कैश्चिदपि रिष्तो हिंसितो भवतु। यद्वा। कर्मनेतॄनस्मान्मा हिनस्तु किन्तु धनादिदानेन पूजयशु। अस्य यतमाना गच्छन्ती दक्षिणा सूर्येण सहैतु। सङ्गच्छताम्। त्रिषु लोकेशु प्रसिद्धा भवत्वित्यर्थः। तस्यास्य सावर्णेः सवर्णपुत्रस्य मनोर्देवा इन्द्रादय आयुर्जीवनं प्र तिरन्तु। प्रवर्धयन्तु। अश्रान्तः कर्मन्वनलसाः सर्वं कर्म कुर्वन्तो वयं यस्मिन्मनौ वाजं गोलक्षणमन्नमसनाम सम्भजेमहि। नाभानेदिष्थोऽहमलभ इत्याशास्ते॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः