मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् १

संहिता

प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।
य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥

पदपाठः

प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः ।
य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

परावतो य इति सप्तदशर्चं त्तुतीयं सूक्तं प्लतेः पुत्रस्य गयस्यार्षम् । षोडशीसप्तदशौ त्रिष्टुभौ। पञ्चदशी त्रिष्टुब्जगती वा। शिष्टाश्चतुर्दश जगत्यः। स्वस्ति नः पथ्यास्विति द्वे पथ्यास्वस्तिदेवताके। शिष्टा वैश्वदेव्यः। तथाचानुक्रान्तम्। परावतस्त्र्यूना गयः प्लातो द्वित्रिष्टुबन्तम् तु स्वस्ति न स्त्रिष्टुब्वा सह चोत्तरया पथ्या स्वस्तिदेवत्येति। पृष्ठ्याभिप्लवयोस्तृतीयेऽहनि वैश्वदेव एतत्सूक्तं वैश्वदेवं निविद्धानम्। सूत्रितं च। अनश्वो जातः परावतो य इति वैश्वदेवम् । आ. ७-७। इति॥

ये देवाः परावतो दूरदेशादागत्याप्यं ज्ञातेयम् मनुष्यैः सह बन्धुत्वं दधिषन्ते धारयन्ति। यद्वा। हविषां प्रदातृभिर्मनुष्यैः सह सख्यम् कुर्म इति परस्परं शब्दायन्ते। धिष शब्दे। चौहोत्यादिकः। छान्दसो झस्यान्तादेशः। धिष धारण इति कैश्चिदप्युपगम्यते। उक्तार्थमेव विशिनष्टि। दनुप्रीतासो मनुष्यैः प्रीता देवा विवस्वतो विवस्वत्पुत्रस्य मनोर्जनिम जन्मानि मनुष्यान्धारयन्ति। किञ्च ये देवा नहुष्यस्य नहुषपुत्रस्य ययातेरेतन्नामकस्य राजर्षेर्बर्हिषि यज्ञ आसते उपविंशति ते देवा नोऽस्मानधि ब्रुवन्तु। धनादिप्रदानेनास्मानधिकं वदन्तु। पूजयन्त्वित्यर्थः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः