मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् ३

संहिता

येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।
उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥

पदपाठः

येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः ।
उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । स्वप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥

सायणभाष्यम्

अग्निष्टॊमे वैश्वदेवशस्त्रे येभ्यो मातेत्येषा धाय्या। सूत्रितं च। अयं वेनश्चोदयत्पृश्निगर्भा येभ्यो माता मधुमत्। अ. ५-१८। इति॥

माता सर्वस्य निर्मात्री पृथिवी येभ्यो देवेभ्यो देवार्थं मधुमद्माधुर्योपेतं पयः सारभुतं क्षीरं पिन्वते क्षरति। तथादितिरएदीनाद्रिबर्हा मेघैः परिवृढा प्रवृद्धा परिवृद्धमेघा वा द्यौश्च पीयूशं पिन्वते। द्यावापृथिव्यौ हविरुत्पादयत इत्यर्थः। ऋषिरात्मानं सम्बोध्याह। उक्थशुष्मानतिबलान् वृषभरान्वृष्टेराहर्तॄन्। हृग्रहोर्भ इति भः। स्वप्नसः सुकर्मणस्तनादित्यानदितेः पुत्रान्देवान् स्वस्तयेऽविनाशायानु मद। अनुस्तुहि। माद्यशेर्लोटि व्यत्ययेन शप्। मन्दतेर्वा स्तुत्यर्थस्यानित्यमागमशासनमिति नमभावः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः