मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् ४

संहिता

नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः ।
ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥

पदपाठः

नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ।
ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥

सायणभाष्यम्

न चक्षसः कर्मनेतृणां मनुष्याणां द्रष्टारः अत एवानिमिषन्तो निमेषमकुर्वाणाः सर्वदा जागरूका देवासो देवा अर्हणा लोकस्य परिचरणार्थं स्तोतव्यत्वाय बृहद्बृंहितममृतत्वममरणधर्मनानशुः। प्राप्ताः। देवाः खलु मनुष्यैः पुज्याः। तस्मात्पूजाहेतुं देवत्वमानशिरे। अत एव ज्योतिरथा दीप्यमानरथोपेता अहिमायाः कैश्चिदप्यहन्तव्यप्रज्ञा अनागसः पापरहिता आदित्या दिवो द्युलोकस्य वर्ष्माणम् नभिस्थानं समुच्छ्रितं देशं स्वस्तयेऽविनाशाय लोकस्य क्षेमकरणार्थं वसते। अधिवसन्ति। यद्वा। स्वतेजसाच्छादयन्ति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः