मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् ५

संहिता

स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् ।
ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥

पदपाठः

स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् ।
तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥

सायणभाष्यम्

सम्राजः सर्वेषां राजानः स्वतेजोभिः सम्यग्राजमानाः सुवृधः सुवृद्धा ये देवा यज्ञमाययुः आयान्ति सोमादिहविर्भक्षणार्थम्। ततोऽपरिह्वृताः कैश्चिदप्यहिंसिता ये देवा दिवि द्युलोके क्षयं निवासं दधिरे विदधति कुर्वन्ति। ऋषिरात्मानमाह। महो महतो गुणाधिक्येनादित्यानदितेः पुत्रांस्तान्प्रसिद्धान्देवानदितिं तेषां मातरमेतन्नामिकां च स्वस्तयेऽविनाशाय नमसा हवीरूपेणान्नेन सुवृक्तिभिः शोभनाभिः स्तुतिभिश्चा विवास। आभिमुख्येन परिचर। विवासतिः परिचरणकर्मा॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः