मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् ६

संहिता

को व॒ः स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ ।
को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो न॒ः पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ॥

पदपाठः

कः । वः॒ । स्तोम॑म् । रा॒ध॒ति॒ । यम् । जुजो॑षथ । विश्वे॑ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति॑ । स्थन॑ ।
कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒ऽजा॒ताः॒ । अर॑म् । क॒र॒त् । यः । नः॒ । पर्ष॑त् । अति॑ । अंहः॑ । स्व॒स्तये॑ ॥

सायणभाष्यम्

ऋषिर्देवान्प्रति बहुधा वितर्कयति। हे देवाः वो युष्माकं कः स्तोतास्तोमं त्रिवृत्पञ्चदशादिलक्षणं राधति। संसाधयति। न कश्चिदस्तीत्यर्थः। यद्वा। मदन्यः को वो युश्मभ्यं स्तोमं करोति। यूयं यं स्तोतारं जुजोषथ सेवध्वे। जुषी प्रीतिसेवनयोः। लेटि शवः श्लुः। अडागमः। किं च हे मनुषो मन्तारो ज्ञतारो हे विश्वे देवासो देवाः यूयं यति यत्संख्याः स्थन भवथ। यच्छब्दादपि छान्दसो डतिर्द्रष्टव्यः। हे तुविजाता धात्रादिविभागेन बहुजनाना हे देवाः युष्मदर्धं को वा यजमानोऽध्वरं यज्ञमरं करत्। अलङ्करोति स्तुतिभिर्हविर्भिश्च। मदन्यो नास्तीत्यर्थः। यो यज्ञो नोऽस्मान् स्वस्तयेऽविनाशायांहः पापरूपं मार्गमवैदिकमति पर्षत् अतिपारयति तं यज्ञं को वालं करोतीति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः