मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् ७

संहिता

येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनु॒ः समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः ।
त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ॥

पदपाठः

येभ्यः॑ । होत्रा॑म् । प्र॒थ॒माम् । आ॒ऽये॒जे । मनुः॑ । समि॑द्धऽअग्निः । मन॑सा । स॒प्त । होतृ॑ऽभिः ।
ते । आ॒दि॒त्याः॒ । अभ॑यम् । शर्म॑ । य॒च्छ॒त॒ । सु॒ऽगा । नः॒ । क॒र्त॒ । सु॒ऽपथा॑ । स्व॒स्तये॑ ॥

सायणभाष्यम्

समिद्धाग्निर्हविर्भिः सम्यग्दीप्ताग्निर्मनुर्वैवस्वतो मनुष्यानां प्रथमभावी श्रद्धधानेन मनसा सप्त सप्तसङ्ख्याकैर्होतृभिर्वषट्कर्तृभिरृत्विग्भिश्च सह येभ्यो युष्मभ्यं प्रथमां द्रथमं मुख्यं यद्वा सर्वेषां मनुष्याणामग्रे क्रियमाणत्वादाद्यं होत्राम्। हूयन्ते हवींष्यत्रेति होत्रा यज्ञः । तम् । यद्वा। आहूयन्ते देवाः स्तुतिभिरत्रेति। तं यज्ञमायेजे अभिमुख्येनेष्टवान्। यजेर्लिटिरूपम् । यद्वा। लिटिलोपस्त आत्मने पदेष्विति तलोपः। यजिवप्योरलिट्येत्वं वक्तव्यम् । का. ६-४-१२०-४। इति वचनादेकारः। हे आदित्या अदितेः पुत्रा हे देवाः ते यूयं नोऽस्मभ्यमभयं शर्म च सुखं प्रयच्छत। किञ्च नोऽस्माकं स्वस्तये क्षेमाय सुपथा सुपथानि शोभनान्वैदिकमार्गान् सुगा सुष्ठु गन्तव्यान् कर्त। कुरुत। करोतेर्लोटि बहुलं छन्दसीति विकरणस्य लुक्। तबादेशः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः